Proofing

This page has been fully proofread once and needs a second look.

.
 
<page>
<ignore>
चतुर्थोऽध्यायः ।
 
१३५
 
</ignore>
<p>
कर्तृत्वाभिमानफलाभिसंधिरहितं वा । इदं तु ब्रह्मबुद्धयुपसृ-

दितार्पणादिकारकक्रियाफलभेदबुद्धि कर्म । अत:धिः कर्म । अतः अकर्मैव

तत् । तथा च दर्शितम् 'कर्मण्यकर्म य:यः पश्येत्' ' कर्म-

ण्यभिप्रवृत्तोऽपि नैव किंचित्करोति सः ' ' गुणा गुणेषु

वर्तन्ते ' ' नैव किंचित्करोमीति युक्तो मन्येत तत्त्ववित्'

इत्यादिभिः । तथा च दर्शयन् तत्र तत्र क्रियाकारकफलभेद-

बुद्धयुपमर्द करोति । दृष्टा च काम्याग्निहोत्रादौ कामोपमर्देन

काम्याग्निहोत्रादिहानिः । तथा मतिपूर्वकामतिपूर्वकादीनां

कर्मणां कार्यविशेषस्य आरम्भकत्वं दृष्टम् । तथा इहापि

ब्रह्मबुद्धयुपमृदितार्पणादिकारकक्रियाफलभेदबुद्धेः बाह्यचेष्टा-

मात्रेण कर्मापि विदुष: अकर्म संपद्यते । अतः उक्तम्

'समग्रं प्रविलीयते' इति ॥
 
</p>
<p merge-next="true">
अत्र केचिदाहुः — यत् ब्रह्म तत् अर्पणादीनि ;

ब्रह्मैव किल अर्पणादिना पञ्चविधेन कारकात्मना व्यव-

स्थितं सत् तदेव कर्म करोति । तत्र न अर्पणादिबुद्धिः निव-

र्त्यते, किं तु अर्पणादिषु ब्रह्मबुद्धि:धिः आधीयते; यथा प्रति-

मादौ विष्ण्वादिबुद्धिः, यथा वा नामादौ ब्रह्मबुद्धिरिति ॥
 

सत्यम्, एवमपि स्यात् यदि ज्ञानयज्ञस्तुत्यर्थे प्रकरणं न

स्यात् । अत्र तु सम्यग्दर्शनं ज्ञानयज्ञशब्दितम् अनेकान्
 
</p>
</page>