2026-05-04 05:31:50 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>चतुर्थोऽध्यायः ।
१३३
</ignore>
<p>इति कर्माभावः प्रदर्शितः । यस्य एवं कर्माभावो दर्शितः
तस्यैव-
--</p>
<verse>गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः ।
यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥ २३ ॥
गं</verse>
<p>गतसङ्गस्य सर्वतोनिवृत्तासक्ते:तेः, मुक्तस्य निवृत्तधर्माधर्मा-
दिबन्धनस्य, ज्ञानावस्थितचेतसः ज्ञाने एव अवस्थितं चेतः
यस्य सोऽयं ज्ञानावस्थितचेताः तस्य, यज्ञाय यज्ञनिर्वृत्त्यर्थम्
आचरतः निर्वर्तयतः कर्म समग्रं सह अग्रेण फलेन वर्तवे
ते
इति समग्रं कर्म तत् समग्रं प्रविलीयते विनश्यति
इत्यर्थः ॥
</p>
<p>कस्मात् पुनः कारणात् क्रियमाणं कर्म स्वकार्यारम्भम्
अकुर्वत् समग्रं प्रविलीयते इत्युच्यते यतः -
--</p>
<verse>ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् ।
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥ २४ ॥
</verse>
<p>ब्रह्म अर्पणं येन करणेन ब्रह्मवित् हविः अग्नौ अर्पयति
तत् ब्रह्मैव इति पश्यति, तस्य आत्मव्यतिरेकेण अभाव
वं
पश्यति, यथा शुक्तिकायां रजताभावं पश्यति ; तदुच्यते
ब्रह्मैव अर्पणमिति, यथा यद्रजतं तत् शुक्तिकैवेति ।ब्रह्म
1
'ब्रह्म</p>
</page>
<ignore>चतुर्थोऽध्यायः ।
<p>इति कर्माभावः प्रदर्शितः । यस्य एवं कर्माभावो दर्शितः
तस्यैव-
<verse>गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः ।
यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥ २३ ॥
गं
<p>गतसङ्गस्य सर्वतोनिवृत्तासक्
दिबन्धनस्य, ज्ञानावस्थितचेतसः ज्ञाने एव अवस्थितं चेतः
यस्य सोऽयं ज्ञानावस्थितचेताः तस्य, यज्ञाय यज्ञनिर्वृत्त्यर्थम्
आचरतः निर्वर्तयतः कर्म समग्रं सह अग्रेण फलेन वर्त
इति समग्रं कर्म तत् समग्रं प्रविलीयते विनश्यति
इत्यर्थः ॥
<p>कस्मात् पुनः कारणात् क्रियमाणं कर्म स्वकार्यारम्भम्
अकुर्वत् समग्रं प्रविलीयते इत्युच्यते यतः -
<verse>ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् ।
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥ २४ ॥
<p>ब्रह्म अर्पणं येन करणेन ब्रह्मवित् हविः अग्नौ अर्पयति
तत् ब्रह्मैव इति पश्यति, तस्य आत्मव्यतिरेकेण अभा
पश्यति, यथा शुक्तिकायां रजताभावं पश्यति ; तदुच्यते
ब्रह्मैव अर्पणमिति, यथा यद्रजतं तत् शुक्तिकैवेति ।
1
</page>