Proofing

This page has not been fully proofread.

चतुर्थोऽध्यायः ।
 
१३३
 
इति कर्माभावः प्रदर्शितः । यस्य एवं कर्माभावो दर्शितः
तस्यैव-
 
गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः ।
यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥ २३ ॥
 
गंतसङ्गस्य सर्वतोनिवृत्तासक्ते:, मुक्तस्य निवृत्तधर्माधर्मा-
दिबन्धनस्य, ज्ञानावस्थितचेतसः ज्ञाने एव अवस्थितं चेतः
यस्य सोऽयं ज्ञानावस्थितचेताः तस्य, यज्ञाय यज्ञनिर्वृत्त्यर्थम्
आचरतः निर्वर्तयतः कर्म समग्रं सह अग्रेण फलेन वर्तवे
इति समग्रं कर्म तत् समग्रं प्रविलीयते विनश्यति
इत्यर्थः ॥
 
कस्मात् पुनः कारणात् क्रियमाणं कर्म स्वकार्यारम्भम्
अकुर्वत् समग्रं प्रविलीयते इत्युच्यते यतः -
ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् ।
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥ २४ ॥
 
ब्रह्म अर्पणं येन करणेन ब्रह्मवित् हविः अग्नौ अर्पयति
तत् ब्रह्मैव इति पश्यति, तस्य आत्मव्यतिरेकेण अभाव
पश्यति, यथा शुक्तिकायां रजताभावं पश्यति ; तदुच्यते
ब्रह्मैव अर्पणमिति, यथा यद्रजतं तत् शुक्तिकैवेति । ब्रह्म
 
1