Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
१३२
 
1
 
श्रीमद्भगवद्गीताभाष्ये
 
</ignore>
<p>
शीतोष्णादिभिः हन्यमानोऽपि अविषण्णचित्तः द्वन्द्वातीत:

उच्यते । विमत्सरः विगतमत्सरः निर्वैरबुद्धिः समः तुल्यः

यदृच्छालाभस्य सिद्धौ असिद्धौ च । यः एवंभूतो यतिः

अन्नादेः शरीरस्थितिहेतो:तोः लाभालाभयोः समः हर्षविषाद-

वर्जितः कर्मादौ अकर्मादिदर्शी यथाभूतात्मदर्शननिष्ठः सन्

शरीरस्थितिमात्रप्रयोजने भिक्षाटनादिकर्मणि शरीरादिनिर्वयें

'नैव किंचित् करोम्यहम् गुणा गुणेषु वर्तन्ते' इत्येवं सदा

संपरिचक्षाणः आत्मन:नः कर्तृत्वाभावं पश्यन्नैव किंचित्

भिक्षाटनादिकं कर्म करोति, लोकव्यवहार सामान्यदर्शनेन

तु लौकिकैः आरोपितकर्तृत्वे भिक्षाटनादौ कर्मणि कर्ता

भवति । स्वानुभवेन तु शास्त्रप्रमाणादिजनितेनं अकर्तेव ।

स एवं पराध्यारोपितकर्तृत्व:वः शरीरस्थितिमात्रप्रयोजनं भिक्षा-.

टनादिकं कर्म कृत्वापि न निबध्यते बन्धहेतोः कर्मणः

सहेतुकस्य ज्ञानाग्निना दग्धत्वात् इति उक्तानुवाद एव एषः ॥
 
</p>
<p merge-next="true">
'त्यक्त्वा कर्मफलासङ्गम् ' इत्यनेन श्लोकेन यः प्रारब्ध-

र्मा सन् यदा निष्क्रियब्रह्मात्मदर्शनसंपन्नः स्यात् तदा

तस्य आत्मनः कर्तृकर्मप्रयोजनाभावदर्शिन:नः कर्मपरित्यागे

प्राप्ते कुतश्चिन्निमित्तात् तदसंभवे सति पूर्ववत् तस्मिन्

कर्मणि अभिप्रवृत्तस्य अपि नैव किंचित् करोति सः '
 
</p>
</page>