Proofing

This page has not been fully proofread.

चतुर्थोऽध्यायः ।
 
१३१
 
मात्रप्रयोजनं शारीरं कर्म अभिप्रेतं भवेत्, तदा दृष्टादृष्टप्रयो-
जनं कर्म विधिप्रतिषेधगम्यं शरीरवाङ्मनसनिर्वर्त्यम् अन्यत्
अकुर्वन् तैरेव शरीरादिभिः शरीरस्थितिमात्रप्रयोजनं केव-
लशब्दप्रयोगात् ' अहं करोमि ' इत्यभिमानवर्जितः शरीरादि-
चेष्टामात्रं लोकदृष्टया कुर्वन् नाप्नोति किल्बिषम् । एवंभूतस्य
पापशब्दवाच्यकिल्बिषप्राप्यसंभवात् किल्बिषं संसारं न
आप्नोति; ज्ञानाग्निदग्धसर्वकर्मत्वात् अप्रतिबन्धेन मुच्यत
एव इति पूर्वोक्तसम्यग्दर्शनफलानुवाद एव एषः । एवम्
'शारीरं केवलं कर्म' इत्यस्य अर्थस्य परिग्रहे निरवद्यं
भवति ॥
 
त्यक्तसर्वपरिग्रहस्य यते: अन्नादेः शरीरस्थितिहेतोः परिग्र-
हस्य अभावात् याचनादिना शरीरस्थितौ कर्तव्यतायां प्रा-
प्तायाम् ' अयाचितमसंक्लप्तमुपपन्नं यदृच्छया' इत्यादिना
वचनेन अनुज्ञातं यतेः शरीरस्थितिहेतोः अन्नादेः प्राप्तिद्वारम्
आविष्कुर्वन् आह—
 
यदृच्छालाभसंतुष्टो द्वन्द्वातीतो विमत्सरः ।
समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते ॥
 
यदृच्छालाभसंतुष्टः अप्रार्थितोपनतो लाभो यदृच्छा-
लाभ: तेन संतुष्टः संजातालंप्रत्ययः । द्वन्द्वातीतः द्वन्द्वैः