Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
१३०
 
श्रीमद्भगवद्गीताभाष्ये
 
</ignore>
<p>
परिग्रहः, शारीरं शरीरस्थितिमात्रप्रयोजनम्, केवलं तत्रापि

अभिमानवर्जितम्, कर्म कुर्वन् न आप्नोति न प्राप्नोति किल्बि -

षम् अनिष्टरूपं पापं धर्मे च । धर्मोऽपि मुमुक्षोः किल्बिषमेव

न्धापादकत्वात् । तस्मात् ताभ्यां मुक्तः भवति, संसारात्

मुक्तो भवति इत्यर्थः ॥
 
</p>
<p merge-next="true">
'शारीरं केवलं कर्म' इत्यत्र किं शरीरनिर्वर्त्य शारीरं कर्म

अभिप्रेतम्, आहोस्वित् शरीरस्थितिमात्रप्रयोजनं शारीरं

कर्म इति ? किं च अतः यदि शरीरनिर्वयैर्त्यं शारीरं कर्म

यदि वा शरीरस्थितिमात्रप्रयोजनं शारीरम् इति ? उच्यते—

यदा शरीरनिर्वर्त्य कर्म शारीरम् अभिप्रेतं स्यात्, तदा

दृष्टादृष्टप्रयोजनं कर्म प्रतिषिद्धमपि शरीरेण कुर्वन् नाप्नोति

किल्बिषम् इति ब्रुवतो विरुद्धाभिधानं प्रसज्येत । शास्त्रीयं च

कर्म दृष्टादृष्टप्रयोजनं शरीरेण कुर्वन् नाप्नोति किल्बिषम् इत्य-

पि ब्रुवत:तः अप्राप्तप्रतिषेधप्रसङ्गः । <quote>' शारीरं कर्म कुर्वन्'</quote> इति

विशेषणात् केवलशब्दप्रयोगांच्च वाङ्मनसनिर्वर्त्यं कर्म विधि-

प्रतिषेधविषयं धर्माधर्मशब्दवाच्यं कुर्वन् प्राप्नोति किल्बिषम्

इत्युक्तं स्यात् । तत्रापि वाङ्मनसाभ्यां विहितानुष्ठानपक्षे

किल्बिषप्राप्तिवचनं विरुद्धम् आपद्येत । प्रतिषिद्धसेवापक्षेऽपि

भूतार्थानुवादमात्रम् अनर्थकं स्यात् । यदा तु शरीरस्थिति-
 
</p>
</page>