Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
१२८
 
श्रीमद्भगवद्गीताभाष्ये
 
</ignore>
<p>
ष्ठीयन्ते; प्रवृत्तेन चेत् लोकसंग्रहार्थम्, निवृत्तेन चेत् जीवन-

मात्रार्थम् । तं ज्ञानाग्निदग्धकर्माणं कर्मादौ अकर्मादिदर्शनं

ज्ञानं तदेव अग्निः तेन ज्ञानाग्निना दग्धानि शुभाशुभलक्ष-

णानि कर्माणि यस्य तम् आहुः परमार्थतः पण्डितं बुधाः

ब्रह्मविदः ॥
 
</p>
<p>
यस्तु अकर्मादिदर्शी, सः अकर्मादिदर्शनादेव निष्कर्मा

संन्यासी जीवनमात्रार्थचेष्टः सन् कर्मणि न प्रवर्तते, यद्यपि

प्राक् विवेकतः प्रवृत्तः । यस्तु प्रारब्धकर्मा सन् उत्तरकालमु-

त्पन्नात्मसम्यग्दर्शनः स्यात्, सः सर्वकर्मणि प्रयोजनमपश्यन्

ससाधनं कर्म परित्यजत्येव । सः कुतश्चित् निमित्तात्

कर्मपरित्यागासंभवे सति कर्मणि तत्फले च सङ्गरहिततया

स्वप्रयोजनाभावात् लोकसंग्रहार्थं पूर्ववत् कर्मणि प्रवृत्तोऽपि

नैव किंचित् करोति, ज्ञानाग्निदग्धकर्मत्वात् तदीयं कर्म

अकर्मैव संपद्यते इत्येतमर्थं दर्शयिष्यन् आह—
</p>
<verse>
त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः ।

कर्मण्यभिप्रवृत्तोऽपि नैव किंचित्करोति सः ॥
 
<fix> २० ॥</fix></verse>
<p merge-next="true">
त्यक्त्वा कर्मसु : अभिमानं फलासङ्गं च यथोक्तेन ज्ञानेन

नित्यतृप्तः निराकाङ्क्षो विषयेषु इत्यर्थः । निराश्रयः आश्रय-
 
</p>
</page>