Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
१२२
 
श्रीमद्भगवद्गीताभाष्ये
 
</ignore>
<verse>
कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः ।

स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥
 
<fix> १८ ॥</fix></verse>
<p>
कर्मणि, क्रियते इति कर्म व्यापारमात्रम्, तस्मिन्

कर्मणि अकर्म कर्माभावं यः पश्येत्, अकर्मणि च कर्मा-

भावे कर्तृतन्त्रत्वात् प्रवृत्तिनिवृत्त्योः - वस्तु अप्राप्यैव हि

सर्व एव क्रियाकारकादिव्यवहारः अविद्याभूमौ एव कर्म

यः पश्येत् पश्यति, सः बुद्धिमान् मनुष्येषु, सः युक्त:तः योगी

च, कृत्स्नकर्मकृत् समस्तकर्मकृश्च्च सः, इति स्तूयते कर्माकर्म-

णोरितरेतरदर्शी ॥
 
</p>
<p merge-next="true">
ननु किमिदं विरुद्धमुच्यते 'कर्मणि अकर्म य: पश्येत्'
यः पश्येत्'
इति 'अकर्मणि च कर्म' इति; न हि कर्म अकर्म स्यात्,

अकर्म वा कर्म । तत्र विरुद्धं कथं पश्येत् द्रष्टा ? - न, अकर्म

एव परमार्थतः सत् कर्मवत् अवभासते मूढदृष्टे:टेः लोकस्य,

तथा कर्मैव अकर्मवत् । तत्र यथाभूतदर्शनार्थमाह भग-

वान् - 'कर्मण्यकर्म यः पश्येत्' इत्यादि । अतो न

विरुद्धम् । बुद्धिमत्त्वाद्युपपत्तेश्च । 'बोद्धव्यम्' इति च

यथाभूतदर्शनमुच्यते । न च विपरीतज्ञानात् अशुभात्

मोक्षणं स्यात्; 'यत् ज्ञात्वा मोक्ष्यसेऽशुभात्' इति च

उक्तम् । तस्मात् कर्माकर्मणी विपर्ययेण गृहीते प्राणिभिः
 
</p>
</page>