Proofing

This page has not been fully proofread.

१२२
 
श्रीमद्भगवद्गीताभाष्ये
 
कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः ।
स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥
 
कर्मणि, क्रियते इति कर्म व्यापारमात्रम्, तस्मिन्
कर्मणि अकर्म कर्माभावं यः पश्येत्, अकर्मणि च कर्मा-
भावे कर्तृतन्त्रत्वात् प्रवृत्तिनिवृत्त्योः - वस्तु अप्राप्यैव हि
सर्व एव क्रियाकारकादिव्यवहारः अविद्याभूमौ एव कर्म
यः पश्येत् पश्यति, सः बुद्धिमान् मनुष्येषु, सः युक्त: योगी
च, कृत्स्नकर्मकृत् समस्तकर्मकृश्च सः, इति स्तूयते कर्माकर्म-
णोरितरेतरदर्शी ॥
 
ननु किमिदं विरुद्धमुच्यते 'कर्मणि अकर्म य: पश्येत्'
इति 'अकर्मणि च कर्म' इति; न हि कर्म अकर्म स्यात्,
अकर्म वा कर्म । तत्र विरुद्धं कथं पश्येत् द्रष्टा ? - न, अकर्म
एव परमार्थतः सत् कर्मवत् अवभासते मूढदृष्टे: लोकस्य,
तथा कर्मैव अकर्मवत् । तत्र यथाभूतदर्शनार्थमाह भग-
वान् - 'कर्मण्यकर्म यः पश्येत्' इत्यादि । अतो न
विरुद्धम् । बुद्धिमत्त्वाद्युपपत्तेश्च । 'बोद्धव्यम्' इति च
यथाभूतदर्शनमुच्यते । न च विपरीतज्ञानात् अशुभात्
मोक्षणं स्यात्; 'यत् ज्ञात्वा मोक्ष्यसेऽशुभात्' इति च
उक्तम् । तस्मात् कर्माकर्मणी विपर्ययेण गृहीते प्राणिभिः