2026-05-03 04:20:02 by ambuda-bot
This page has not been fully proofread.
१२०
श्रीमद्भगवद्गीताभाष्ये
अन्योऽपि माम् आत्मत्वेन अभिजानाति 'नाहं कर्ता न मे
कर्मफले स्पृहा' इति सः कर्मभिः न बध्यते, तस्यापि न देहा-
द्यारम्भकाणि कर्माणि भवन्ति इत्यर्थः ॥
'नाहं कर्ता न मे कर्मफले स्पृहा' इति—
एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः ।
कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् ॥ १५ ॥
एवं ज्ञात्वा कृतं कर्म पूर्वैः अपि अतिक्रान्तैः मुमुक्षुभिः ।
कुरु तेन कर्मैव त्वम्, न तूष्णीमासनं नापि संन्यास:
कर्तव्यः, तस्मात् त्वं पूर्वैरपि अनुष्ठितत्वात्, यदि अनात्मज्ञः
त्वं तदा आत्मशुद्ध्यर्थम्, तत्त्वविश्चेत् लोकसंग्रहार्थं पूर्वैः
जनकादिभिः पूर्वतरं कृतं न अधुनातनं कृतं निर्वर्तितम् ॥
तत्र कर्म चेत् कर्तव्यं त्वद्वचनादेव करोम्यहम्, किं
विशेषितेन 'पूर्वैः पूर्वतरं कृतम्' इत्युच्यते ; यस्मात् महत्
वैषम्यं कर्मणि । कथम् !--
किं कर्म किमकर्मेति
कवयोऽप्यत्र मोहिताः ।
तत्ते कर्म प्रवक्ष्यामि
यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ १६ ॥