2026-05-04 04:41:27 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>११८
श्रीमद्भगवद्गीताभाष्ये
</ignore>
<p>याजिनां फलाकाङ्क्षिणां क्षिप्रं शीघ्रं हि यस्मात् मानुषे लोके,
मनुष्यलोके हि शास्त्राधिकार:रः । ''क्षिप्रं हि मानुषे लोके '
'
इति विशेषणात् अन्येष्वपि कर्मफलसिद्धिं दर्शयति भगवान् ।
मानुषे लोके वर्णाश्रमादिकर्माणि इति विशेष:षः, तेषां च
वर्णाश्रमाद्यधिकारिकर्मणां फलसिद्धिः क्षिप्रं भवति । कर्मजा
कर्मणो जाता ॥
</p>
<p>मानुषे एव लोके वर्णाश्रमादिकर्माधिकारः, न अन्येषु
लोकेषु इति नियम:मः किंनिमित्त इति ? अथवा वर्णाश्रमादि-
प्रविभागोपेताः मनुष्याः मम वर्त्म अनुवर्तन्ते सर्वशः
इत्युक्तम् । कस्मात्पुनः कारणात् नियमेन तवैव वर्त्म अनु-
वर्तन्ते न अन्यस्य इति ? उच्यते--
</p>
<verse>चातुर्वर्ण्ययं मया सृष्टं गुणकर्मविभागशः ।
तस्य कर्तारमपि मां विद्धधध्यकर्तारमव्ययम् ॥
<fix> १३ ॥</fix></verse>
<p merge-next="true">चत्वार एव वर्णाः चातुर्वर्ण्यं मया ईश्वरेण सृष्टम् उत्पा-
दितम्,' 'ब्राह्मणोऽस्य मुखमासीत्'' इत्यादिश्रुतेः । गुणक-
र्मविभागशः गुणविभागशः कर्मविभागशश्च । गुणाः सत्त्व-
रजस्तमांसि । तत्र सात्त्विकस्य सत्त्वप्रधानस्य ब्राह्मणस्य
'
'शमो दमस्तप:'पः' इत्यादीनि कर्माणि सत्त्वोपसर्जनरजः प्रधा-
१
</p>
</page>
<ignore>११८
<p>याजिनां फलाकाङ्क्षिणां क्षिप्रं शीघ्रं हि यस्मात् मानुषे लोके,
मनुष्यलोके हि शास्त्राधिका
इति विशेषणात् अन्येष्वपि कर्मफलसिद्धिं दर्शयति भगवान् ।
मानुषे लोके वर्णाश्रमादिकर्माणि इति विशे
वर्णाश्रमाद्यधिकारिकर्मणां फलसिद्धिः क्षिप्रं भवति । कर्मजा
कर्मणो जाता ॥
<p>मानुषे एव लोके वर्णाश्रमादिकर्माधिकारः, न अन्येषु
लोकेषु इति निय
प्रविभागोपेताः मनुष्याः मम वर्त्म अनुवर्तन्ते सर्वशः
इत्युक्तम् । कस्मात्पुनः कारणात् नियमेन तवैव वर्त्म अनु-
वर्तन्ते न अन्यस्य इति ? उच्यते--
<verse>चातुर्वर्ण्
तस्य कर्तारमपि मां विद्
<p merge-next="true">चत्वार एव वर्णाः चातुर्वर्ण्यं मया ईश्वरेण सृष्टम् उत्पा-
दितम्,
र्मविभागशः गुणविभागशः कर्मविभागशश्च । गुणाः सत्त्व-
रजस्तमांसि । तत्र सात्त्विकस्य सत्त्वप्रधानस्य ब्राह्मणस्य
'
'शमो दमस्त
१
</page>