Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
चतुर्थोऽध्यायः ।
 
११७
 
</ignore>
<p>
र्थिनः तान् फलप्रदानेन, ये यथोक्तकारिणस्तु अफलार्थिनः

मुमुक्षवश्च तान् ज्ञानप्रदानेन, ये ज्ञानिनः संन्यासिन:नः मुमु-

क्षवश्च तान् मोक्षप्रदानेन, तथा आर्तान् आर्तिहरणेन

इत्येवं यथा प्रपद्यन्ते ये तान् तथैव भजामि इत्यर्थः । न पुनः

रागद्वेषनिमित्तं मोहनिमित्तं वा कंचित् भजामि । सर्वथापि

सर्वावस्थस्य मम ईश्वरस्य वर्त्म मार्गम् अनुवर्तन्ते मनुष्याः-
--
यत्फलार्थितया यस्मिन् कर्मणि अधिकृताः ये प्रयतन्ते ते

मनुष्या अत्र उच्यन्ते --- हे पार्थ सर्वशः सर्वप्रकारैः ॥
 
</p>
<p>
यदि तव ईश्वरस्य रागादिदोषाभावात् सर्वप्राणिषु अनु-

जिघृक्षायां तुल्यायां सर्वफलप्रदानसमर्थे च त्वयि सति
'

&apos;
वासुदेवः सर्वम्'&apos; इति ज्ञानेंनेनैव मुमुक्षवः सन्तः कस्मात्

त्वामेव सर्वे न प्रतिपद्यन्ते इति ? शृणु तत्र कारणम्-
--</p>
<verse>
काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः ।

क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥
 
<fix> १२ ॥</fix></verse>
<p merge-next="true">
काङ्क्षन्त:तः अभीप्सन्तः कर्मणां सिद्धिं फलनिष्पत्तिं प्रार्थ-

यन्तः यजन्ते इह अस्मिन् लोके देवता:ताः इन्द्राग्न्याद्या:याः ; '<quote>&apos;अथ

योऽन्यां देवतामुपास्ते अन्योऽसावन्योऽहमस्मीति न स वेद

यथा पशुरेवं स देवानाम्'&apos;</quote> इति श्रुतेः । तेषां हि भिन्नदेवता-
 
</p>
</page>