Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
७२
 
श्रीमद्भगवद्गीताभाष्ये
 
</ignore>
<p>
एषा यथोक्ता ब्राह्मी ब्रह्मणि भवा इयं स्थितिः सर्व

कर्म संन्यस्य ब्रह्मरूपेणैव अवस्थानम् इत्येतत् । हे पार्थ, न

एनां स्थितिं प्राप्य लब्ध्वा न विमुह्यति न मोहं प्राप्नोति ।

स्थित्वा अस्यां स्थितौ त्ब्राह्म्यां यथोक्तायां अन्तकालेऽपि

अन्त्ये वयस्यपि ब्रह्मनिर्वाणं ब्रह्मनिर्वृतिं मोक्षम् ऋच्छति

गच्छति । किमु वक्तव्यं ब्रह्मचर्यादेव संन्यस्य यावज्जीवं यो

ब्रह्मण्येव अवतिष्ठते स ब्रह्मनिर्वाणमृच्छति इति ॥
 
</p>
<trailer>
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपाद-

शिष्यस्य श्रीमच्छंकरभगवतः कृतौंतौ श्रीमद्भगवद्गीताभाष्ये

द्वितीयोऽध्यायः ॥
 
:
 
</trailer>
</page>