2026-05-04 01:30:16 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>द्वितीयोऽध्यायः ।
७१
</ignore>
<verse>विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः ।
निर्ममो निरहंकारः स शान्तिमधिगच्छति ॥
:!
<fix> ७१ ॥</fix></verse>
<p>विहाय परित्यज्य कामान् यः संन्यासी पुमान् सर्वान्
अशेषत:तः कात्स्न्र्त्स्न्येन चरति, जीवनमात्रचेष्टाशेषः पर्यटतीत्यर्थः ।
निःस्पृहः शरीरजीवनमात्रेऽपि निर्गता स्पृहा यस्य सः निः-
स्पृहः सन्, निर्ममः शरीरजीवनमात्राक्षिप्तपरिग्रहेऽपि ममेदम्
इत्यभिनिवेशवर्जितः, निरहंकार :रः विद्यावत्त्वादिनिमित्तात्मसं-
भावनारहितः इत्येतत् । सः एवंभूतः स्थितप्रज्ञः ब्रह्मवित्
शान्तिं सर्वसंसारदुःखोपरमलक्षणां निर्वाणाख्याम् अधिग-
च्छति प्राप्नोति ब्रह्मभूतो भवति इत्यर्थः ॥
</p>
<p>सैषा ज्ञाननिष्ठा स्तूयते—
</p>
<verse>एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति ।
स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ॥
<fix> ७२ ॥</fix></verse>
<trailer>इति श्रीमहाभारते शतसाहस्रर्यां संहितायां वैयासिक्यां
भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां
योगशास्त्रे श्रीकृष्णार्जुनसंवादे सांख्ययोगो नाम
द्वितीयोऽध्यायः ॥
</trailer>
</page>
<ignore>द्वितीयोऽध्यायः ।
<verse>विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः ।
निर्ममो निरहंकारः स शान्तिमधिगच्छति ॥
:!
<p>विहाय परित्यज्य कामान् यः संन्यासी पुमान् सर्वान्
अशेष
निःस्पृहः शरीरजीवनमात्रेऽपि निर्गता स्पृहा यस्य सः निः-
स्पृहः सन्, निर्ममः शरीरजीवनमात्राक्षिप्तपरिग्रहेऽपि ममेदम्
इत्यभिनिवेशवर्जितः, निरहंका
भावनारहितः इत्येतत् । सः एवंभूतः स्थितप्रज्ञः ब्रह्मवित्
शान्तिं सर्वसंसारदुःखोपरमलक्षणां निर्वाणाख्याम् अधिग-
च्छति प्राप्नोति ब्रह्मभूतो भवति इत्यर्थः ॥
<p>सैषा ज्ञाननिष्ठा स्तूयते—
<verse>एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति ।
स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ॥
<trailer>इति श्रीमहाभारते शतसाहस्