2026-05-03 04:19:43 by ambuda-bot
This page has not been fully proofread.
७०
श्रीमद्भगवद्गीताभाष्ये
हेतुत्वादर्शनात् प्रमाणस्य । तस्मात् न आत्मविदः कर्मण्य-
धिकार इति सिद्धम् ॥
विदुषः त्यक्तैषणस्य स्थितप्रज्ञस्य यतेरेव मोक्षप्राप्तिः, नं
तु असंन्यासिनः कामकामिनः इत्येतमर्थं दृष्टान्तेन प्रतिपाद-
यिष्यन् आह-
आपूर्यमाणमचलप्रतिष्ठं
समुद्रमापः प्रविशन्ति यद्वत् ।
तद्वत्कामा यं प्रविशन्ति सर्वे
स शान्तिमाप्नोति न कामकामी ॥ ७० ॥
आपूर्यमाणम् अद्भिः अचलप्रतिष्ठम् अचलतया प्रतिष्ठा
अवस्थितिः यस्य तम् अचलप्रतिष्ठं समुद्रम् आपः सर्वतो गताः
प्रविशन्ति स्वात्मस्थमविक्रियमेव सन्तं यद्वत्, तद्वत् कामाः
विषयसंनिधावपि सर्वतः इच्छाविशेषाः यं पुरुषम् — समुद्र-
मिव आपः — अविकुर्वन्तः प्रविशन्ति सर्वे आत्मन्येव प्रली-
यन्ते न स्वात्मवशं कुर्वन्ति, सः शान्ति मोक्षम् आप्नोति,
न इतर: कामकामी, काम्यन्त इति कामाः विषयाः तान्
कामयितुं शीलं यस्य सः कामकामी, नैव प्राप्नोति इत्यर्थः ॥
यस्मादेवं तस्मात् —