Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
६८
 
श्रीमद्भगवद्गीताभाष्ये
 
</ignore>
<p>
योऽयं लौकिको वैदिकश्च व्यवहारः स उत्पन्नविवेकज्ञा-

नस्य स्थितप्रज्ञस्य अविद्याकार्यत्वात् अविद्यानिवृत्तौ निव-

र्तते, अविद्यायाश्च विद्याविरोधात् निवृत्तिः, इत्येतमर्थं स्फुटी -
-
कुर्वन् आह-
 
--</p>
<verse>
या निशा सर्वभूतानां
 

तस्यां जागर्ति संयमी ।

यस्यां जाग्रति भूतानि
 

सा निशा पश्यतो मुनेः ॥ ६९ ॥
</verse>
<p>
या निशा रात्रिः सर्वपदार्थानामविवेककरी तमःस्वभाव -

त्वात् सर्वभूतानां सर्वेषां भूतानाम् । किं तत् परमार्थतत्त्वं

स्थितप्रज्ञस्य विषयः । यथा नक्तंचराणाम् अहरेव सद-

न्येषां निशा भवति, तद्वत् नक्तंचरस्थानीयानामज्ञानां

सर्वभूतानां निशेव निशा परमार्थतत्त्वम्, अगोचरत्वादत-
ह्रु

द्बु
द्धीनाम् । तस्यां परमार्थतत्त्वलक्षणायामज्ञाननिद्रायाः प्र-

बुद्धो जागर्ति संयमी संयमवान्, जितेन्द्रियो योगीत्यर्थः ।

यस्यां ग्राह्यग्राहकभेदलक्षणायामविद्यानिशायां प्रसुप्तान्येव

भूतानि जाग्रति इति उच्यन्ते, यस्यां निशायां प्रसुप्ता इव

स्वप्नदृशः, सा निशा अविद्यारूपत्वात् परमार्थतत्त्वं पश्यतो.

मुनेः ॥
 
</p>
</page>