Proofing

This page has not been fully proofread.

द्वितीयोऽध्यायः ।
 
' अयुक्तस्य कस्माद्बुद्धिर्नास्ति इत्युच्यते-
 
६७
 
इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते ।
तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ॥ ६७॥
 
इन्द्रियाणां हि यस्मात् चरतां स्वस्वविषयेषु प्रवर्तमा-
नानां यत् मनः अनुविधीयते अनुप्रवर्तते तत् इन्द्रियविषय-
विकल्पनेन प्रवृत्तं मनः अस्य यतेः हरति प्रज्ञाम् आत्माना-
त्मविवेकजां नाशयति । कथम् ? वायुः नावमिव अम्भसि
उदके जिगमिषतां मार्गादुद्धृत्य उन्मार्गे यथा वायुः नावं
प्रवर्तयति, एवमात्मविषयां प्रज्ञां हृत्वा मनो विषयविषयां
करोति ॥
 
' यततो हि' इत्युपन्यस्तस्यार्थस्य अनेकधा उपपत्ति-
मुक्त्वा तं चार्थमुपपाद्य उपसंहरति---
तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ।
 
इन्द्रियाणां प्रवृत्तौ दोष उपपादितो यस्मात्, तस्मात् यस्य
यतेः हे महाबाहो, निगृहीतानि सर्वशः सर्वप्रकारैः मानसा-
दिभेदैः इन्द्रियाणि इन्द्रियार्थेभ्यः शब्दादिभ्यः तस्य प्रज्ञा
प्रतिष्ठिता ॥