2026-05-04 01:34:47 by akprasad
This page has been fully proofread once and needs a second look.
<ignore>६
:
<p>प्रसादे सर्वदुःखानाम् आध्यात्मिकादीनां हा
अस्य यतेः उपजायते । किंच
करणस्य हि यस्मात् आशु शीघ्रं बुद्धिः पर्यवतिष्ठते आका-
शमिव परि समन्तात् अवतिष्ठते, आत्मस्वरूपेणैव निश्चली-
भवतीत्यर्थः ॥
}
<p>एवं प्रसन्नचेतसः अवस्थितबुद्धेः कृतकृत्यता यतः,
तस्मात् रागद्वेषवियुक्तैः इन्द्रियैः शास्त्राविरुद्धेषु अवर्जनीयेषु
युक्तः समाचरेत् इति वाक्यार्थः ॥
<p>सेयं प्रसन्नता स्तूयते—
<verse>नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना
न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ॥
-
<p>नास्ति न विद्यते न भवतीत्यर्थः, बुद्
अयुक्तस्य असमाहितान्तःकरणस्य । न च अस्ति अयुक्तस्य
भावना आत्मज्ञानाभिनिवेशः । तथा- न च अस्ति अभा-
वयतः आत्मज्ञानाभिनिवेश
बयतः आत्मज्ञानाभिनिवेश
न्तस्य कुतः सुखम् ? इन्द्रियाणां हि विषयसेवातृष्णातः निवृ-
त्तिर्या तत्सु
न तृष्णायां सत्यां सुखस्य गन्धमात्रमप्युपपद्यते इत्यर्थः ॥
</page>