Proofing

This page has not been fully proofread.

द्वितीयोऽध्यायः ।
 
६५
 
कार्याकार्यविषयविवेकयोग्यम् । तदयोग्यत्वे नष्ट एव पुरुषो
 
भवति । अतः तस्यान्तःकरणस्य वुद्धेर्नाशात् प्रणश्यति
पुरुषार्थायोग्यो भवतीत्यर्थः ॥
 
सर्वानर्थस्य मूलमुक्तं विषयाभिध्यानम् । अथ इदानीं
मोक्षकारणमिदमुच्यते—
 
रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन् ।
आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ॥
 
रागद्वेषवियुक्तैः रागश्च द्वेषश्च रागद्वेषौ तत्पुरःसरा हि
इन्द्रियाणां प्रवृत्तिः स्वाभाविकी, तत्र यो मुमुक्षुः भवति सः
ताभ्यां वियुक्तैः श्रोत्रादिभिः इन्द्रियैः विषयान् अवर्जनीयान्
चरन् उपलभमानः आत्मवश्यैः आत्मनः वश्यानि वशी-
भूतानि इन्द्रियाणि तै: आत्मवश्यैः विधेयात्मा इच्छातः
विधेयः आत्मा अन्तःकरणं यस्य सः अयं प्रसादम् अधि-
गच्छति । प्रसादः प्रसन्नता स्वास्थ्यम् ॥
 
प्रसादे सति किं स्यात् इत्युच्यते--
 
प्रसादे सर्वदुःखानां हानिरस्योपजायते ।
प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ॥ ६५ ॥ .
 
S. B. 5