Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
६२
 
श्रीमद्भगवद्गीताभाष्ये
 
</ignore>
<p>
यतिः कूर्मः अङ्गानि इव यथा कूर्मः भयात् स्वान्यङ्गानि

उपसंहरति सर्वशः सर्वतः, एवं ज्ञाननिष्ठः इन्द्रियाणि इन्द्रि-

यार्थेभ्यः सर्वविषयेभ्यः उपसंहरते । तस्य प्रज्ञा प्रतिष्ठिता

इत्युक्तार्थं वाक्यम् ॥
 
</p>
<p>
तत्र विषयाननाहरत:तः आतुरस्यापि इन्द्रियाणि कूर्माङ्गा-

नीव संह्रियन्ते न तु तद्विषयो रागः स कथं संहियते इति

उच्यते-
 
--</p>
<verse>
विषया विनिवर्तन्ते निराहारस्य देहिनः ।

रसवर्जे रसोऽप्यस्य परं दृष्ट्वा निवर्तते ॥ ५९ ॥
 

 
</verse>
<p>
यद्यपि विषयाः विषयोपलक्षितानि विषयशब्दवाच्यानि

इन्द्रियाणि निराहारस्य अनाह्रियमाणविषयस्य कष्ठेटे तपसि

स्थितस्य मूर्खस्यापि विनिवर्तन्ते देहिनो देहवत:तः रसवर्ज

रसो रांगोरागः विषयेषु यः तं वर्जयित्वा । रसशब्दो रागे

प्रसिद्धः, स्वरसेन प्रवृत्त:तः रसिकः रसज्ञः, इत्यादिदर्शनात् ।

सोऽपि रसो रञ्जनारूपः सूक्ष्मः अस्य यतेः परं परमार्थ-

तत्त्वं ब्रह्म दृष्ट्वा उपलभ्य ' &apos;अहमेव तत्'&apos; इति वर्तमानस्य

निवर्तते निर्बीजं विषयविज्ञानं संपद्यते इत्यर्थः । न असति

सम्यग्दर्शने रसस्य उच्छेदः । तस्मात् सम्यग्दर्शनात्मिकायाः

प्रज्ञायाः स्थैर्ये कर्तव्यमित्यभिप्रायः ॥
 
</p>
</page>