Proofing

This page has not been fully proofread.

द्वितीयोऽध्यायः ।
 
६१
 
दुःखप्राप्तौ मनो यस्य सोऽयम् अनुद्विग्नमनाः । तथा सुखेषु
प्राप्तेषु विगता स्पृहा तृष्णा यस्य, न अग्भिरिव इन्धनाद्या-
धाने सुखान्यनु विवर्धते स विगतस्पृहः । वीतरागभयक्रोधः
रागश्च भयं च क्रोधश्च वीता विगता यस्मात् स वीतराग-
भयक्रोधः । स्थितधीः स्थितप्रज्ञो मुनिः संन्यासी तदा
उच्यते ॥
 
किंच—
 
यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् ।
नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥
 
यः मुनिः सर्वत्र देहजीवितादिष्वपि अनभिस्नेहः अभि-
स्नेहवर्जितः तत्तत् प्राप्य शुभाशुभं तत्तत् शुभं अशुभं वा
लब्ध्वा न अभिनन्दति न द्वेष्टि शुभं प्राप्य न तुष्यति न
हृष्यति, अशुभं च प्राप्य न द्वेष्टि इत्यर्थः । तस्य एवं हर्ष-
विषादवर्जितस्य विवेकजा प्रज्ञा प्रतिष्ठिता भवति ॥
 
किंच—
 
यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥
 
यदा संहरते सम्यगुपसंहरते च अयं ज्ञाननिष्ठायां प्रवृत्तो