Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
६०
 
श्रीमद्भगवद्गीताभाप्ये
 
</ignore>
<p>
नानि लक्षणानि च भवन्ति तानि श्रीभगवानुवाच -
 
---</p>
<verse>
श्रीभगवानुवाच-
 
--
प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् ।

आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ॥
 
<fix> ५५ ॥</fix></verse>
<p>
प्रजहाति प्रकर्षेण जहाति परित्यजति यदा यस्मिन्काले

सर्वान् समस्तान् कामान् इच्छाभेदान् हे पार्थ, मनोगतान्

मनसि प्रविष्टान् हृदि प्रविष्टान् । सर्वकामपरित्यागे तुष्टिका-

रणाभावात् शरीरधारणनिमित्तशेषे च सति उन्मत्तप्रमत्त-

स्येव प्रवृत्तिः प्राप्ता इत्यत उच्यते--- आत्मन्येव प्रत्यगात्म-

स्वरूपे एव आत्मना स्वेनैव बाह्यलाभनिरपेक्षः तुष्टः परमा-

र्थदर्शनामृतरसलाभेन अन्यस्मादलंप्रत्ययवान् स्थितप्रज्ञः स्थि-

ता प्रतिष्ठिता आत्मानात्मविवेकजा प्रज्ञा यस्य सः स्थितप्रज्ञ:
ञः
विद्वान् तदा उच्यते । त्यक्तपुत्रवित्तलोकैषणः संन्यासी

आत्माराम आत्मक्रीड:डः स्थितप्रज्ञ इत्यर्थः ॥
 
</p>
<p>
किंच--
 
-</p>
<verse>
दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः ।

वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥ ५६ ॥
 
</verse>
<p merge-next="true">
दुःखेषु आध्यात्मिकादिषु प्राप्तेषु न उद्विग्नं न प्रक्षुभितं
 
</p>
</page>