Proofing

This page has been fully proofread once and needs a second look.

-<page>
<ignore>
द्वितीयोऽध्यायः ।
 
५७
 
</ignore>
<p>
स्वधर्माख्येषु कर्मसु वर्तमानस्य या सिद्ध्यसिद्ध्योः समत्वबुद्धिः

ईश्वरार्पितचेतस्तया तत् कौशलं कुशलभावः । तद्धि कौशलं

यत् बन्धनस्वभावान्यपि कर्माणि समत्वबुद्ध्या स्वभावात्

निवर्तन्ते । तस्मात्समत्वबुद्धियुक्तो भव त्वम् ॥
 
</p>
<p>
यस्मात्-
 
--</p>
<verse>
कर्मजं वुबुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः ।

जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ॥
 
<fix> ५१ ॥</fix></verse>
<p>
कर्मजं फलं त्यक्त्वा इति व्यवहितेन संबन्धः । इष्टानि-

ष्टदेहप्राप्तिः कर्मजं फलं कर्मभ्यो जातं बुद्धियुक्ताः समत्व-

बुद्धियुक्ताः सन्तः हि यस्मात् फलं त्यक्त्वा परित्यज्य मनी-

षिणः ज्ञानिनो भूत्वा, जन्मबन्धविनिर्मुक्ता:ताः जन्मैव बन्धः

जन्मबन्धः तेन विनिर्मुक्ताः जीवन्त एव जन्मबन्धात् वि-

निर्मुक्ताः सन्तः, पदं परमं विष्णोः मोक्षाख्यं गच्छन्ति अना-

मयं सर्वोपद्रवरहितमित्यर्थः । अथवा '&apos;बुद्धियोगाद्धनंजय

इत्यारभ्य परमार्थदर्शनलक्षणैव सर्वतः संप्लुतोदकस्थानीया

कर्मयोगजसत्त्वशुद्धिजनिता बुद्धिर्दर्शिता, साक्षात्सुकृतदुष्कृ-

तप्रहाणादिहेतुत्वश्रवणात् ॥
 
</p>
<p>
योगानुष्ठानजनितस स्त्त्वशुद्धिजा बुद्धिः कदा प्राप्स्यते

इत्युच्यते-
 
--</p>
</page>