Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
द्वितीयोऽध्यायः ।
 
५५
 
</ignore>
<p>
नेष्यते, किं कर्मणा दुःखरूपेण ? इति मा ते तव सङ्गः

अस्तु अकर्मणि अकरणे प्रीतिर्मा भूत् ॥
 
</p>
<p>
यदि कर्मफलप्रयुक्तेन न कर्तव्यं कर्म, कथं तर्हि कर्तव्य -

मिति; उच्यते—
 
</p>
<verse>
योगस्थः कुरु कर्माणि
 

सङ्गं त्यक्त्वा धनंजय ।

सिद्ध्यसिद्ध्योः समो भूत्वा

समत्वं योग उच्यते ॥ ४८ ॥
 
</verse>
<p>
योगस्थः सन् कुरु कर्माणि केवलमीश्वरार्थम् ; तत्रापि
'

<quote>&apos;
ईश्वरो मे तुष्यतु'&apos;</quote> इति सङ्गं त्यक्त्वा धनंजय । फलतृष्णा-

शून्येन क्रियमाणे कर्मणि सत्त्वशुद्धिजा ज्ञानप्राप्तिलक्षणा
सिद्धि:

सिद्धिः
, तद्विपर्ययजा असिद्धिः, तयोः सिद्ध्यसिद्ध्योः अपि

समः तुल्यः भूत्वा कुरु कर्माणि । कोऽसौ योगः यत्रस्थः

कुरु इति उक्तम् ? इदमेव तत् — सिद्धयसिद्धध्यसिद्ध्योः समत्वं

योगः उच्यते ॥
 
</p>
<p>
यत्पुनः समत्वबुद्धियुक्तमीश्वराराधनार्थे कर्मोक्तम्, एत-
-

स्मात्कर्मणः--
 
</p>
</page>