Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
५४
 
श्रीमद्भगवद्गीताभाष्ये
 
</ignore>
<p>
एव संपद्यते सर्वेषु वेदेषु वेदोक्तेषु कर्मसु यः अर्थः यत्कर्म-

फलं सः अर्थः ब्राह्मणस्य संन्यासिनः परमार्थतत्त्वं विजा-

नतः यः अर्थः यत् विज्ञानफलं सर्वतः संप्लुतोदकस्थानीयं

तस्मिन् तावानेव संपद्यते तत्रैवान्तर्भवतीत्यर्थः । '&apos;यथा

कृताय विजितायाधरेयाः संयन्त्येवमेनं सर्वं तदभिसमेति

यत् किंचित् प्रजाः साधु कुर्वन्ति यस्तद्वेद यत्स वेद'
&apos;
इति श्रुतेः । '&apos;सर्वं कर्माखिलम्'&apos; इति च वक्ष्यति । तस्मात्

प्राक् ज्ञाननिष्ठाधिकारप्राप्तेः कर्मण्यधिकृतेन कूपतडागाद्यर्थ-.

स्थानीयमपि कर्म कर्तव्यम् ॥
 
</p>
<p>
तव च-
 
--</p>
<verse>
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।

मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥ ४७ ॥
 
</verse>
<p merge-next="true">
कर्मण्येव अधिकारः न ज्ञाननिष्ठायां ते तव । तत्र । तत्र

कर्म कुर्वतः मा फलेषु अधिकारः अस्तु, कर्मफलतृष्णा मा

भूत् कदाचन कस्यांचिदप्यवस्थायामित्यर्थः । यदा कर्मफले

तृष्णा स्यात् तदा कर्मफलप्राप्तेः हेतुः स्याः, एवं मा

कर्मफलहेतुः भूः । यदा हि कर्मफलतृष्णाप्रयुक्तः कर्मणि

प्रवर्तते तदा कर्मपलस्यैव जन्मनो हेतुर्भवेत् । यदि कर्मफलं
 
</p>
</page>