Proofing

This page has not been fully proofread.

१५४
 
नृसिंहपूर्वतापनीयोपनिषद्धाप्ये
 
तदादिन्यायेन नाभिस्थब्रह्मविष्णुमहेश्वरैः परिचारकैः बन्द-
ari महाचक्राख्यं स्थानम् । यत्र गत्वेति । तस्य गन्तव्य -
तामाह तद्विप्राम इति । तत्तादृशं स्थानं विप्रासः विप्रा
ब्राह्मणाः उपासकाः विपन्यव. मेधाविन: समाधौ धारण-
शक्तियुक्ता: । जागृवांस: जागरितावस्थायामेव अवस्था -
यात्प्रच्युत्य समिन्धते समृद्धिं कुर्वन्ति । तादात्म्यपक्षे तु
मन्त्रब्राह्मणयोर्यथाम्वरूप व्याख्येयम् । इति शब्दो मन्त्र-
समाप्तिं द्योतयति । पदचतुष्टयाभ्यासः सर्वोपनिषत्समाप्तिं
द्योतयतीति सर्वं निर्मलं सिद्धम् ॥
 
इति अष्टमाध्यायभाष्यम् ॥
 
इति श्रीमत्परमहसपरिव्राजकाचार्यस्य
 
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
 
श्रीमच्छकरभगवतः कृतौ
नृसिंहपूर्वतापनीयोपनिषद्भाष्यं
 
संपूर्णम् ॥