Proofing

This page has not been fully proofread.

पञ्चमोपनिषत् ।
 
१५३
 
यत्र न मृत्युः प्रविशति यत्र न दुःखं सदानन्दं परमानन्दं
शाश्वतं शान्तं सदाशिवं ब्रह्मादिवन्दितं योगिध्येयं यत्र
गत्वा न निवर्तन्ते योगिनः तदेतत्स्थानम् ऋचाभ्युक्तं विष्णो-
येत्परमं पदमिति । यच्छब्देन क्षीरोदार्णवस्थानं परामृश्यते,
परमपदप्रत्यभिज्ञानात् । सूरयः उपासकाः उपासनाभेदेन ता-
दात्म्यमुपासनाया चेत् सायुज्यं फलं ततश्च विष्णुरेव परमं
पदम् । उभयत्रापि विष्णोरिति षष्ठीनिर्देशः शिलापुत्रकम्य श-
रीरमितिवद्द्रष्टव्यः । अथ उपास्योपासकभावेन चेदनुष्टुब्विद्या
तस्य नृसिंहस्य विष्णोः परमं पदं परमं स्थानं महाचक्रना-
भिक्षीरोदार्णवप्रभृति तत्र स्थिताः उपासका : अनुष्ठातार:
• जतार : अध्येतारो वा सदा सर्वकालं पश्यन्ति । कीदृशं
तदित्यपेक्षिते, आह—दिवीव द्युलोक इव चक्षुः ख्यातेः
सूर्यमण्डलम् आततम् आसमन्तान् ततं विस्तृतं वर्तुलं प्र-
काशात्मकं सर्वप्रकाशाभिभवकारणम् अत. सूर्यचन्द्रनक्षत्रा-
दीनां ब्रह्मणि प्रवेशः प्रतिषिद्धः तपकर्तृता च यत्र सूर्यो न
तपतीत्यादिना । एवं तस्मिन् आधिदैवात्मके दुःखे प्रति-
षिद्धे आध्यात्मिक दुःखप्राप्तौ तत्प्रतिषेधति — यत्र न दुःख-
मिति । विदुःखता दुःखाभावमात्रे प्राप्ते, सुषुप्तवज्जडता स्या-
दिति तद्व्यावृत्त्यर्थं सदानन्दमिति । ब्रह्मादिवन्दितमिति ।
 
-