Proofing

This page has not been fully proofread.

१५२
 
नृसिंहपूर्वतापनीयोपनिषद्भाष्ये
 
एवं नित्यानुष्ठाने आनुषङ्गिकं सर्वे फलमभिधाय, अथे-
दानी तद्विद्यानुष्ठातुर्जप्तुः अध्येतुश्च उत्कर्षतरतमभावेन स -
र्वोत्कृष्टतां सर्वोत्कृष्टं च फलमाह — अनुपनीतशतमेकमे-
केनोपनीतेन तत्समम् । उपनीतशतम् उपकुर्वाणकानां न
नैष्ठिकाभिप्रायेण तस्य सर्वोत्कृष्टत्वात् । एकमेकेन गृहस्थेन
तत्समं गृहस्थशतम् एकम् एकेन वानप्रस्थेन तत्समं वानप्र-
स्थशतम् एकम् एकेन यतिना तत्समं सोऽयमाश्रमस्वीकार-
मात्रे तरतमभावः नाश्रमप्रयुक्तानुष्ठानाभिप्रायेण ; ततश्च यती-
नां च शतं पूर्ण स्वीकृताश्रममात्राणां यस्मिन्कस्मिश्चित्स्थित-
रुद्रजाप्येन तत्समं रुद्रजाप्यशतमेकं यस्मिन्कस्मिंश्चिदाश्रमे
स्थिताथर्वशिरः शिखाध्यायकेन जापकेन तत्सममथर्वशिर : शि--
खाध्यायकशतं मन्त्रराजजापकेन तत्समम् इत्युत्कर्षतरतम-
भावस्य मन्त्रराजजापके एतद्विद्यावति विश्रान्तत्वात् एत-
द्विद्यावान्सर्वोत्कृष्ट इति गम्यते । यथा आनन्दतरतमभावस्य
ब्रह्मणि विश्रान्तत्वात् ब्रह्मानन्द एव सर्वोत्कृष्टः । यस्मा-
देवं तस्मात् वै प्रसिद्धम् एतत्परमं धाम स्थानम् एतद्वि-
द्यागर्भितमन्त्रराजाध्यायकस्य जापकस्य अनुष्ठातुर्वा । यत्र
क्षीरोदार्णवस्थाने सूर्यो न तपति यत्र वायुर्न वाति यत्र न
चन्द्रमास्तपति यत्र न नक्षत्राणि भान्ति यत्र नाभिर्दहति