Proofing

This page has not been fully proofread.

१५०
 
नृसिंहपूर्वतापनीयोपनिषद्भाष्ये
 
यः एतं मन्त्रराजं नारसिहमानुष्टुभं नित्यमधीते, सः
ऋचो यजूंषि सामान्यथर्वाणमङ्गिरसम् एतच्च त्रयीसंपुटी-
करणम्, एतदन्तरालवर्तित्वाद्वेदत्रयस्य । तथा च तस्मिन्नेव
ब्राह्मणे प्रजापतिः प्रथममथर्वाणमपश्यत् ततस्त्रयीं ततः
अङ्गिरसम् इत्यसकृदभिहितत्वात् शाखाः पुराणानि कल्पा-
न्गाथा नाराशंसीः प्रणवमधीते इति फलनिर्देश: । अव च यः
प्रणवमधीते मः सर्वमधीते इति वदन मूलमन्त्रप्रणवयोः फल-
साम्यादुभयोः साम्यं दर्शयति । ततश्च जपे समाधौ च उभ-
योर्विकल्पः
: । तथा च नित्यानुष्ठाने फलकामनायां प्रयोगवि-
शेषः । तत्तत्फलपदोश्चारणं मूलमन्त्रजपान्ते कार्यमिति के-
चित्; अन्ये तु तद्विनैव केवलं कामनैव कार्येति, सांप्रदायि
कमेवान्वेष्यमिति । द्विरभ्यासोऽध्यायममाप्ति द्योतयति ।
 
इति सप्तमाध्यायभाष्यम् ॥
 
अष्टमोऽध्यायः ॥
 
अनुपनीतशतमेकमेकेनोपनीतेन तत्सम-
मुपनीतशतमेकमेकेन गृहस्थेन तत्समं गृ-
हस्थशतमेकमेकेन वानप्रस्थेन तत्समं वा-
 
नप्रस्थशतमेकमेकेन यतिना तत्समं यती-