Proofing

This page has not been fully proofread.

पञ्चमोपनिषत् ।
 
१४९
 
य एतं मन्त्रराजं नारसिंहमानुष्टुभं नित्यमधीते सोऽग्नि-
टोमेनोक्थ्येन षोडशिना वाजपेयेनातिरात्रेणाप्तोर्या मेणात्यग्नि-
ष्टोमेनान्यैश्च सर्वैः क्रतुभिर्यजत इति फलनिर्देश: । द्विरभ्या-
सोऽध्यायसमाप्तिं द्योतयति । न च वाच्यम् 'अन्यानर्थ-
क्यात्' इति न्यायेन कथं फलनिर्देश इति । यतो मनोव्या-
पारैकसाध्यत्वादेतद्विद्यानुष्ठानस्य तस्य च कर्मानुष्ठानादत्य-
न्तदुः संपादत्वादित्यधिकारभेदेन नान्यानर्थक्यमिति सर्व
निर्मलम् ॥
 
इति ष्टष्ठाध्यायभाष्यम् ॥
 
सप्तमोऽध्यायः ॥
 
य एतं मन्त्रराजं नारसिंहमानुष्टुभं
नित्यमधीते स ऋचोऽधीते स यजूंष्य-
धीते स सामान्यधीते सोऽथर्वाणमधीते
सोऽङ्गिरसमधीते स शाखा अधीते स
पुराणान्यधीते स कल्पानधीते स गाथा
अधीते स नाराशंसीरधीते स प्रणवम-
धीते यः प्रणवमधीते स सर्वमधीते स
सर्वमधीते ॥ ७ ॥