Proofing

This page has not been fully proofread.

१४६
 
नृसिंहपूर्वतापनीयोपनिषद्भाष्ये
 
भ्रूणहत्या भ्रूणां गर्भ:, यद्वा साङ्गवेदार्थव्याख्याता दीक्षितो
भ्रूण:, वीरहत्यां वीर पुत्रः सवनस्थ: क्षत्रियो वा अन्यच्च
पातकं सर्वं तरति । द्विरभ्यासोऽध्यायसमाप्तिं द्योतयति ॥
इति द्वितीयाध्यायभाष्यम् ॥
 
तृतीयोऽध्यायः ॥
 
य एतं मन्त्रराजं नारसिंहमानुष्टुभं
नित्यमधीते सोऽग्निं स्तम्भयति स वायुं
स्तम्भयति स आदित्यं स्तम्भयति स
सोमं स्तम्भयति स उदकं स्तम्भयति म
सर्वान्देवान्स्तम्भयति स सर्वान्ग्रहान्स्त-
म्भयति स विषं स्तम्भयनि स विषं स्त-
म्भयति ॥
 
इति तृतीयोऽध्यायः ॥
 
य एतं मन्त्रराजं नारसिंहमानुष्टुभं नित्यमधीते सोऽग्निं
वायुमादित्यं सोममुदकं सर्वान्देवान्प्रहान्विषं स्तम्भयतीति
स्तम्भनफलनिर्देश: । द्विरभ्यासोऽध्यायसमाप्तिं द्योतयति ॥
इति तृतीयाध्यायभाष्यम् ॥