Proofing

This page has not been fully proofread.

पञ्चमोपनिषत् ।
 
द्वितीयोऽध्यायः ॥
 
१४५
 
य एतं मन्त्रराजं नारसिंहमानुष्टुभं
नित्यमधीते स मृत्युं तरति स पाप्मानं
तरति स ब्रह्महत्यां तरति स भ्रूणहत्यां
तरति स वीरहत्यां तरति स सर्वे तर-
ति स सर्व तरति ॥ २ ॥
 
इति द्वितीयोऽध्यायः ॥
 
इतः प्रभृति नित्यमेतद्विद्यानुष्ठानेन तत्प्रतिपादकग्रन्थाध्य-
यनेन जपेन वा आनुषङ्गिकान्येव फलानि काम्यानि तद्रहि-
तानि वा कथयितुमाह । य उपासकः नित्यत्वेन तद्विद्यानुष्ठा-
नेन तज्जपेन वा पापक्षयं कामयते । एतं मन्वराजं नारसिं-
हमानुष्टुभं नित्यमधीते इत्युक्तार्थम् । तथा इतः प्रभृति आ
अन्त्याद्ध्यायात् तत्र तत्र यच्छब्देन पुंलिङ्गेन प्रागुक्तनृसिंह-
विद्याया निश्चिततया अनुष्ठानात् तद्विद्याप्रतिपादकग्रन्थजप्ता
वा अध्येता वा परामृश्यते । तथा तच्छब्देन पुंलिङ्गेन स
एव परामृश्यते । तथा तत्र तत्र पुंलिङ्गात् तच्छब्दाभ्या-
सात् तम्मन्नेव नित्यानुष्ठाने जपे वा व्यस्तं समस्तं वा
यथायोग्यतया फलं गम्यते । स मृत्युं पाप्मानं ब्रह्महत्यां