Proofing

This page has not been fully proofread.

१४४
 
नृसिंहपूर्वतापनीयोपनिषद्भाष्ये
 
नुष्ठानात् इत्यभिप्रायेण तत्र तत्र अधीते अधीते इत्यवो-
चत् । अथवा नित्यमधीते इति नियमेनाधीते । अथवा नित्यम्
अधि इत्युपरिभावे इते जानीते । सर्वे गत्यर्था ज्ञानार्था: ।
नित्यं संध्योपासनादि निर्वत्यक्तकालं यो विद्यामेतामनुति-
ष्ठतीत्यर्थः : । अथवा नित्यमानुष्टुभम् इत्यन्वयात् आनुष्टुभस्य
सानो नित्यत्वं दर्शयति नेतरस्य सामरूपम्येति । अथवा
नित्यं संध्योपासनादि कर्माधिकृत्य इते जानीते । एतदुक्तं
भवति । ततो नित्यसंध्योपासनाग्निहोत्राद्युपास्यदेवता नार-
सिंहलीलाविग्रहेत्युपास्ते । एतद्विद्यागर्भितेत्यर्थः । अथवा यः
उपासकः प्रागुक्तविद्यानुष्ठानप्रकारज्ञाने असमर्थ स केवलं
विद्याप्रतिपादकं ग्रन्थं नित्यं प्रतिदिनं स्वाध्यायधर्मेण अधी-
ते पठति जपति, सोऽपि वक्ष्यमाणं फलं प्राप्नोति । तस्य
तज्जप सामर्थ्यात्परमेश्वर कारुण्यात् तद्विद्यानुष्ठानप्रकारं
साकारप्रभृति निराकारपर्यन्तमिव कथयति । तथा च
अन्ते श्रूयते—— तद्वा एतत्परमं धामैतद्विद्यागर्भितमन्त्रराजा-
ध्यायकस्य पाठकस्य जापकस्य' इत्यादिना । स उपास-
कोऽग्निवाय्वादित्यसोमसत्यब्रह्मविष्णुरुद्रवेदैर्नृसिंहरूपैरुपास्यै:
पूतो भवति पवित्रो भवति । अन्यैश्च सर्वैर्नृसिंहरूपैरुपास्यैः
पूतो भवति । द्विरभ्यासोऽध्याय समाप्तिं द्योतयति ॥
 
1
 
इति प्रथमाध्यायभाष्यम् ॥