Proofing

This page has not been fully proofread.

१४२
 
नृसिंहपूर्वतापनीयोपनिषद्भाष्ये
 
यम्मात्स्वमहिम्ना सर्वाल्लोकान्सर्वान्देवान्सर्वानात्मनः सर्वाणि
भूतानीत्य सकृन्महिमशब्दवाच्याया मायाया: सर्वलोकसर्व-
देवात्मभूतानां साधनत्वेन श्रवणात् तद्वेष्टितमायाधारत्वेन
यथासंख्यं पृथिव्यादिलो कर्वेदादिवेदाग्न्यादिदेवभूतानामा-
त्मनां च साधनत्वश्रवणान्महाचक्रान्तर्गतवेष्टितमायाधारमे-
वेदमुपासनम् । न तु मूलनृसिंहगतं पञ्चाङ्गन्यासार्थं च
अन्तरङ्गत्वान्महाचक्रमेवेदमुपासनम् । तदपि संप्रदायाग-
तमुपादेयमित्युपासनाविकल्पः । तत्रापि बहुतरं संप्रदायानु-
कूल्यागतत्वात् अन्त्यमेवोपासनमुपादेयमिति केचित् । तस्मि-
न्मते प्रणव सावित्रयजुर्लक्ष्मीनृसिंह गायत्रीति मन्त्रचतुष्टयम
सामाभिव्यक्तं यथायोग्यतया महाचक्रप्रकाशकत्वेन योज्यं
तथैवोपास्यं महाचक्रमिति रहस्यं तत्त्वं च इति ॥
 
एवं नृसिंहब्रह्मविद्यां सकलमतानुसारिणीं कृत्स्नामभि-
अथेदानीं तदनुष्ठातुः कैमुत्यन्यायेन फलकथनाय प्र-
श्रोत्तररूपाख्यायिकामवतारयति -
 
धाय,
 
देवा ह वै प्रजापतिमब्रुवन्नानुष्टुभस्य
मन्त्रराजस्य फलं नो ब्रूहि भगव इति
स होवाच प्रजापतिर्य एतं मन्त्रराजं