Proofing

This page has not been fully proofread.

पञ्चमोपनिषत् ।
 
१४१
 
दानां मूलनृसिहव्यूहे. द्वात्रिंशद्वयूहे च व्याख्यातत्वात् उभ-
योद्देशेन होमं कुर्यात् । ततश्च क्षीरोदार्णवगायिने नृसिंहाय
त्रिनेत्राय पिनाकहस्तायोग्रायेदम् इति हुत्वा ब्रह्मादिद्वात्रिं-
शद्वयूहात्मकाय नृसिंहायोप्रायेति जुहुयान् इत्येवं प्रतिपदं
मूलमन्त्रावृत्ति । यद्वा अनुष्टुभा इत्येकवचनात् सकृन्मूल-
मन्त्रमुच्चार्य स्वाहाकारान्तं जुहुयात् प्रतिपदम उद्दिश्य त्यागः
कार्य: । तथा सामाभिव्यक्तानुष्टुभा अर्चनं षोडशोपचारादि
कुर्यादित्यनुषङ्गः । अत्रापि होममन्त्रवन्मन्त्रावृत्त्यनावृत्ती
एष्टव्ये । तदेतन्महाचक्रं रक्षोघ्नं मृत्युतारकं गुरुप्रसादाल्लब्धं
कण्ठे बाहौ शिखायां वा बघ्नीत य. तम्मै गुरवे यस्मात्सत-
द्वीपवती द्विगुणावृत्तापि भूमि: पृथिवी दक्षिणार्थं नावकल्प-
ते, तस्माच्छ्रद्धया भक्त्या या कांचिद्भूमिं यथाशक्त्यनुरूपां
दद्यात् सा दक्षिणा भवति । एवं प्रागुक्तं श्रुतित उपासन-
मवगतं पञ्चाङ्गन्यास उपसंहृतमेकस्मान्मतात् । अथ मता
न्तरपर्यालोचनया महाचक्र एवोपसंहृतं तस्मात्प्रत्यक्षरमु
भयत ओंकारो भवतीत्यत्र मूलमन्त्राक्षराणां प्रणव उप-
संहृतत्वात् प्रणवप्रधानमेवेदं महाचक्रं तस्मिञ्शक्तिबाहुल्य-
श्रवणान्मायया बहिर्वेष्टितं भवति । बहिर्मायया वेष्टितं
भवतीत्य सकृच्छ्रवणात् उद्धृतपदव्याख्यानावसरे प्रतिपदं