Proofing

This page has not been fully proofread.

१४०
 
"
 
नृसिंहपूर्वतापनीयोपनिषद्धाप्ये
 
यस्मिन महाचक्रे, अक्षरे, अशू व्याप्तावित्यम्य रूपं सरो
मत्वर्थे तस्मिन्व्याप्तिमति । परमे उत्कृष्टे व्योमवत्सर्वव्या-
पकत्वेन स्थिते । अधीत्युपरिभावे । ऋच इति ऋग्ग्रहणम्
उपलक्षणार्थम् । ऋचः वेदा: निषेदुः यस्मिन् चक्रे विश्वे
सर्वे देवाः नृसिंहरूपेण निषेदुः स्थिताः । यद्वा ऋच
इति षष्ठी । अनुष्टुपसंबन्धिनि अक्षरे व्याप्रिमति चक्रे सर्वे
वेदाः स्थिताः तत्सुदर्शनमन्त्रादिसंबन्धि चक्रमित्यर्थः । य
उपासक' तन्महाचक्रं न वेद नोपास्ते किम् ऋचा ऋग्वेदा-
दिना यदि वा ऋचा अनुष्टुप्छन्दम्कया ऋचा इति ।
अनेनैतद्दर्शयति — महाचक्रोपासन गर्भितमेव अनुष्टुबुपासनं
कुर्यात् न तु तद्रहितमिति । य इत्तद्विदुस्त इमे समासत.
इत्युक्तार्थम् । इति-शब्दः ऋक्समाप्तिं द्योतयति । तदेतन्महा-
चक्रं बालो वा युवा वा वेद उपान्ते तम्य इदं फलम -
स महान्भवति । महतीं प्रतिष्ठां जने प्राप्नोति । यदि वा
महान महाविष्णुरिति । स गुरुः सर्वैः देववदाराध्यः । स
सर्वेषां मन्त्राणामुपदेष्टा भवत्युपदेशकः । सामाभिव्यक्ता-
नुष्टुभा होमं कुर्यादिति विद्याङ्गोऽयं होम: तस्मिन्द्रव्यानु-
पादानात् प्रतिदिनं हविष्यमन्नं साज्यं जुहुयादिति । तथा
सख्यानुपादानात्सकृद्द्वादशवारं वा । यदि वा सूत्रागतदशप-