Proofing

This page has not been fully proofread.

पञ्चमोपनिषत् ।
 

 
१३९
 
यत्तु एकैकमक्षरम् एकैकम्मिन्पत्रे तत्प्रणवसंपुटितं कार्यम्,
' प्रत्यक्षरमुभयत ओंकारो भवति' इति श्रुतेः । तदनाख्य-
मङ्गं महाचक्रमुपासितं तन्निक्षिप्तमनिष्ठे वस्तुनि त्रासकारि-
त्वात् तदत्रं पञ्चममङ्गम् । अत एव अस्त्राङ्गमन्त्रं व्याचक्षा-
गैरस्माभिरुक्तं प्रपश्चसारे—' असुत्रासादिकौ धातू स्तः क्षेप-
चलनार्थको । ताभ्यामनिष्टमाक्षिप्य क्षिप्यते फट्खडग्निना '
इति । सार्वकामिकं मोक्षद्वारमित्युक्तार्थम् । ऋङ्मयं यजुर्मयं
साममयं ब्रह्ममयममृतमयं भवतीति पञ्च मयट्प्रत्ययाः प्रा-
चुर्यार्थां ग्राह्या. । ऋग्यजुःसामाथर्वप्रचुरम् । ब्रह्ममयमिति
ब्रह्मशब्दन अथर्ववेदः सोऽयं ब्रह्म वेद इत्येतद्ब्राह्मणाभि-
धानात् । वेदप्रचुरता अराणां वेदबुद्धयोपास्यत्वात् । विका-
रार्थो वा मयट् वेदविकारात्मका इत्यर्थ । अमृतमयं क्षीरप्रचु-
रनाभिकं क्षीरविकारनाभिकं वा इति । तस्येति तच्छब्दान्ना-
fert विष्णु: मूलनृसिहव्यूहः परामृश्यते । तत्परिचारका-
न्देवानाह — पुरस्ताद्वसवः परिचारका आसते रुद्रा दक्षिणत
आदित्याः पञ्चाद्विश्वे देवा उत्तरतो ब्रह्मविष्णुमहेश्वरा ना-
भ्यामिति । एवं दिङ्नाभिपरिचारकानुक्त्वा अथेदानीं
पार्श्वपरिचारकानाह —— सूर्याचन्द्रमसौ पार्श्वयोः कुक्षिप्रदे-
शयोरिति यावत् । तदेतन्महाचक्रम् ऋचा अभ्युक्तम् ।
 
-
 
-