Proofing

This page has not been fully proofread.

१३८
 
नृसिंहपूर्वतापनीयोपनिषद्भाष्ये
 
दार्णवसंबन्धितया उपासनं विधीयत इत्यर्थ । तत्र केचित्
नारसिंहमेकाक्षरम् इति विशेषणोपादानात् एकाक्षर नृसिंह-
मिश्रित प्रणवो नाभ्यां न्यसनीय इत्याचक्षते ; तदपि सांप्र-
दायिकत्वान्न विरुद्धम् । तस्मिन्नपि पक्षे नारसिंहमिति त-
द्धितात् एकाक्षरो नृसिंहमन्त्रः प्रणवमिश्रितो द्वात्रिंशन्नृसिंह-
व्यूहं विहाय यावत्प्राकरणिकं मूलनृसिंहव्यूहगतमुपास्यं प्रती-
यत एव । ततश्व एतद्विद्याङ्गमेकाक्षरो नृसिंहमन्त्रो यथो-
क्तोपास्याभिधायकत्वात् तस्य केवलः प्रणवेन विकल्पः ए-
काक्षरनृसिंहमन्त्रस्य प्रणवस्तु नियत एवेति तत्त्वार्थः T: 1
अत ऊर्ध्वं तत्तन्मन्त्रन्यासे तत्तच्चक्रेषु पत्रग्रहणम् अरतद्-
न्तरालपत्रान्तरालव्यावृत्त्यर्थे द्रष्टव्यम् । षट्सु पत्रेषु सुदर्शनं
भवति । ऐशानपत्रमारभ्य षडक्षरः सुदर्शनो मन्त्रो न्यस-
नीय इत्यर्थः । एवमुत्तरेषु पत्रेषु योज्यम् । अष्टसु पत्रेष्व-
टाक्षरं नारायणं भवति । प्रणवान्तर्भावेनाष्टाक्षरतेति के-
चित् । तद्वदेव द्वादशपत्रेषु द्वादशाक्षरं वासुदेवं भवतीति ।
अत्रापि द्वादशाक्षरता पूर्ववन् । षोडशपत्रेषु मातृकामन्वव-
र्णस्य आद्या वर्णमातृकाया: सबिन्दुका बिन्दुसहिताः षोडश
स्वरा भवन्ति । द्वात्रिंशत्सु पत्रेषु द्वात्रिंशदक्षरं सामाभिव्यक्तं
मन्त्रराजमानुष्टुभं भवति । मूलमन्त्रस्यैव एकैकमक्षरम् ।