Proofing

This page has not been fully proofread.

पञ्चमोपनिषत् ।
 
१३.
 
होमं कुर्यादनुष्टुभार्चनं तदेतद्रक्षोघ्नं मृत्यु-
तारकं गुरुतो लब्धं कण्ठे बाहौ शिखायां
वा बनीन सप्तद्वीपवती भूमिर्दक्षिणार्थ
नावकल्पते तस्माच्छ्रया यां कांचिद्द-
द्यात्सा दक्षिणा भवति ॥ २ ॥
 
. 9
 
तच्छब्देन द्वात्रिंशदरं द्वात्रिंशत्पत्रं चक्रम् एवशब्देन तदे-
वावधृत्य तदेव चक्रं तदादिन्यायेन सुदर्शनादिशब्दैरूर्ध्व चक्र-
चतुष्टयमपि महाचक्रात्मकमिति दर्शयति । महाचक्रमिति सा-
मानाधिकरण्याच्च । तस्य मध्ये महाचक्रस्य मध्ये मध्यवर्ति-
नाभ्यां वेष्ट्रनरूपा हि नाभयो भूमध्याः ताः व्यावर्तयितुं मध्ये
नाभ्यामित्युक्तम् । तारकं भवति संसारतारकत्वात् तारकं प्रण-
वाक्षरं भवति । यदक्षरं नारसिंहमेकांक्षर तद्भवतीति अक्षरम,
जगद्धितं वा एतद्रूपमक्षरमिति नृसिंह पदव्याख्यानावसरे व्या-
ख्यातं तदक्षरशब्दात्प्रत्यभिज्ञायते । तथा नारसिंहमिति
तद्वितात्सामप्रभृत्युपास्यं सर्व प्रतीयते । ततः सर्वस्मिन्नुपास्ये
प्रतीते एकमेवोपास्यं मूलनृसिंहव्यूहाख्यं वक्तुं विशिनष्टि-
एकाक्षरं तद्भवतीति । यदक्षरं नारसिंहमुपास्यम् इत्यनूद्य
तदेकं भवतीत्यक्षरं च इति महाचक्रमध्यनाभिवर्तित्वेन क्षीरो-