Proofing

This page has not been fully proofread.

१३६
 
नृसिंहपूर्वतापनीयोपनिषद्भाष्ये
 
यणं भवति द्वादशसु पत्रेषु द्वादशाक्षरं
वासुदेवं भवति षोडशसु पत्रेषु मातृ-
कायाः सबिन्दुकाः षोडश कला भवन्ति
द्वात्रिंशत्सु पत्रेषु द्वात्रिंशदक्षरं मन्त्रराजं
नारसिंहमानुष्टुभं भवति तद्वा एतत्सु-
दर्शनं महाचक्रं सार्वकामिकं मोक्षद्वारमृ-
मयं यजुर्मयं माममयं ब्रह्ममयममृतमयं
भवति तस्य पुरस्ताद्वसव आसते रुद्रा
दक्षिणत आदित्याः पश्वाद्विश्वे देवा उत्त
रतो ब्रह्मविष्णुमहेश्वरा नाभ्यां सूर्याच
न्द्रमसौ पार्श्वयोस्तदेतदृचाभ्युक्तम् — ऋ
चो अक्षरे परमे व्योमन्यस्मिन्देवा अधि
विश्वे निषेदुः । यस्तं न वेद किमुचा क-
रिष्यति य इत्तद्विदुस्त इमे समासत
इति । तदेतन्महाचक्रं बालो वा युवा
वा वेद स महान्भवति स गुरुर्भवति
स सर्वेषां मन्त्राणामुपदेष्टा भवत्यनुष्टुभा