Proofing

This page has not been fully proofread.

पञ्चमोपनिषत् ।
 
१३५
 
बहिर्मायया । यत्र च मायाशब्दात्पर: वेष्टन शब्दात्पूर्वः
बहि: शब्द. तत्राविशिष्टया मायया तत्र बहिः शब्दो न
मायाविशेषणम, किंतु वेष्टनविशेषणम् । माया हि द्विविधा
नारसिंहमूलमन्त्रगता सबिन्दुकेकाररूपा निरुपपदान्माया-
शब्दात्प्रतीयते ; अन्या तु रेफहकाराभ्यां मिलितसबिन्दुके-
काररूपा सोपपदान्मायाशब्दात्प्रतीयते । ततश्च मूलमन्त्रा-
द्बहिर्भूतमायया ह्रीमित्येवंरूपया वेष्टितं भवतीति तत्त्वार्थः ।
 
ततः
 
सुदर्शनचक्रे मूलमन्त्रगतमायया वेष्टनं षोडशचक्रेऽप्येव-
मेव हि शब्दस्य वेष्टनात्पूर्वमुपादानात् वेष्टनविशेषणं बहि:-
शब्दो मध्यवेष्टनव्यावृत्त्यर्थ । नारायणवासुदेवनारसिंहच-
क्रेषु व्याख्यातबहिर्मायया वेष्टनमिति वेष्टनचक्रोद्धारवि-
"वेकः ॥
 
एवं महाचक्रस्य संवेष्टनमुद्धारं च अभिधाय अथेदानी-
मुद्धृतचक्रे यथाविहितमन्त्रान् न्यसितुं तन्नाभ्याम् अक्षरन्या-
 
समाह-
 
तदेव चक्रं सुदर्शनं महाचक्रं तस्य
मध्ये नाभ्यां तारकं भवति यदक्षरं नार-
सिंहमेकाक्षरं तद्भवति षट्सु पत्रेषु षडक्ष-
रं सुदर्शनं भवत्यष्टसु पत्रेष्वष्टाक्षरं नारा-