2026-05-06 06:50:42 by ambuda-bot
This page has not been fully proofread.
१३४
नृसिंहपूर्वतापनीयोपनिषद्भाष्ये
भिरूपं द्वादशाक्षरवेष्टनं सबिन्दुकमातृका षोडशाक्षरस्य ना-
भिरूपं सबिन्दुकाद्यमातृकाषोडशाक्षरवेष्टनं द्वात्रिंशदक्षरस्य
नाभिः ततो द्वात्रिंशदक्षरवेष्टनम् असंस्पृष्टमनाभिरूपमेव इ-
त्येवं सुदर्शननारायणवासुदेवषोडशारद्वात्रिंशद रचक्राणां य-
थासंख्यं पञ्च नाभयः नाभीनामेवापेक्षया वेष्टनरूपतेत्याद्यः
नाभि: मायाक्षररहितः उपरितनाः नाभयः अन्त्यं च
वेष्टनं मायाक्षरेणेति तत्त्वार्थ । नन्वेवं तर्हि अथशब्दस्य
तत्र तत्र प्रयोगात्पूर्वचक्रसंस्पर्शात्पश्वनाभिकानि पञ्च च-
काणि पृथक्प्रयोज्यानि कस्मान्न परिगृह्यन्ते । तथा च एक-
चक्रत्वेऽप्यमायिनो भूतनाभिकल्पनायां वेष्टनव्यतिरिक्तप-
नाभिकल्पना कस्मान्न भवति ? अन्रोच्यते— 'महाचक्रं.
नाम चक्रं नो ब्रूहि' इत्युपक्रम्य ' तद्वा एतन्महाचक्रम् '
इत्युपसंहारात् महाचक्रैकतावगमाञ्च चक्रचतुष्टयं तदन्तर्गत-
मेवेत्यवगम्यते । तत्र तत्र अथशब्दप्रयोगस्तु तत्तच्चक्रोद्धारे
माङ्गलिकत्वप्रदर्शनार्थः । तथा वेष्टनानां नाभिकल्पनायां
प्रतिषेधाभावात् योग्यत्वाच्च कल्पनालाघवाच्च न पृथगुभे
कल्पने इति । यत्र कचिद्बहिः शब्दपूर्वको मायाशब्दः
पठ्यते कचिद्विपरीतः तत्रायमभिप्रायः- यत्र मायाश-
ब्दाद्वहि शब्द: पूर्व' तत्र मायाविशेषणं बहिर्भूतया मायया