Proofing

This page has not been fully proofread.

१३२ नृसिंहपूर्वतापनीयोपनिषद्भाष्ये
 
मोक्षद्वारं प्रणवबहुलत्वान्मूलमन्त्राक्षरसंख्यातः प्रणवसंपुटी-
करणात्प्रणवाक्षरसंख्या द्विगुणा चतुःषष्टिः । अस्यां च
विद्याया मोक्षः प्रणवद्वारक एव, 'देहान्ते देवः परं ब्रह्म
तारकं व्याचष्टे' इति श्रुतेः । ततश्चायमर्थ: - मोक्षस्य प्रण-
वाख्यं द्वारं यस्मिंस्तत्तथोक्तम् । यच्चक्रं योगिनः उपदिश-
न्त्युपासकेभ्यः । स होवाच प्रजापतिरित्युक्तार्थम् । षडरं

वा एतत्सुदर्शनं महाचक्रं महाचक्रस्यैव नामान्तरं सुदर्शन-
मन्त्रयोगात् सुदर्शनम् । यद्वा सुष्ठु दर्शनं विद्यते यस्मिंस्त-
थोक्तम् । एतत्पत्राधोभागे नालरूपः अरशब्दवाच्यः । षडरा
विद्यन्ते यस्मिंस्तत् षडरम्, यस्मादेवं तस्मात् षडरं भवति ।
षट्पत्रं चक्रं भवति अरादुपरिभागः कोणत्रययुक्तः पत्रा-
कृति: पत्रम्, षट्पत्राणि विद्यन्ते यस्मिस्तत्तथोक्तम् । एतदेव
स्तौति – षड्वा ऋतवः ऋतुभिः संमितं भवति । तस्मा-
दर्थवादात् अराः पत्राणि च ऋतुबुद्ध्योपास्यानि भवन्ति ।
अराणां प्रतिष्ठार्थं स्थानमाह - मध्ये चक्रस्य मध्ये नाभिः
वर्तुलाकारा भवति । नाभ्यां वै एते अराः प्रतिष्ठिता:
प्रागुक्ताः, तदादिन्यायेन पत्राणि च प्रागुक्तानि । मायया
प्रागुक्तेन मूलमन्त्रशक्त्यक्षरेण एतत्षडरं षट्पत्रं सर्व वेष्टितं
भवति । यस्मात् न आत्मानं चक्रस्य स्वरूपम् अरपत्रात्मकं
 
-