Proofing

This page has not been fully proofread.

पञ्चमोपनिषत् ।
 
१३१
 
गती जगत्या संमितं भवति बहिर्मा-
यया वेष्टितं भवति । अथ षोडशारं षो-
डशपत्रं चक्रं भवति षोडशकलो वै
पुरुषः पुरुष एवेदं सर्व पुरुषेण संमितं
भवति मायया बहिर्वेष्टितं भवति । अथ
द्वात्रिंशदरं द्वात्रिंशत्पत्रं चक्रं भवति
द्वात्रिंशदक्षरा वा अनुष्टुवनुष्टुभा संमितं
भवति बहिर्मायया वेष्टितं भवत्यरैवी
एतत्सुबद्धं भवति वेदा वा एतेऽराः पत्रै-
af एतत्सर्वतः परिक्रामति च्छन्दांसि
वै पत्राणि ॥ १ ॥
 
देवाः प्राक्स्तुतिश्रवणेनात्यन्तर्षिताः प्रजापतिमब्रुवन -
महाचक्रं नाम एतन्नामधेययुक्तं चक्रम्, यद्वा एतन्नामधेययु-
क्तमेव चक्रं वर्तुलमुत्तराधरभावेन स्थितं सच्चतुष्टयाङ्गव्यापक-
मस्त्राख्यमङ्गं नः अस्मभ्यं ब्रूहि भगवः भगवन्निति संबोधनम् ।
सार्वकामिकं सर्वकामसाधनत्वात् सार्वकामिकम, अथवा सर्वे-
षां देवानां ब्रह्मादीनां व्यूहाः स्वात्मतयैव स्वभावतयैव कामिता
यस्मिंश्चक्रे नाभिवर्त्याद्यव्यूहेन तत्सार्वकामिकम् । अत एव