Proofing

This page has not been fully proofread.

१३०
 
नृसिंहपूर्वतापनीयोपनिषद्भाष्ये
 
नामा; अपि तु महाचक्रनाभिवर्तिक्षीरोदार्णव संबन्धिनृसिंह-
व्यूहः । तस्मात्सूक्तमुपनिषद्विद्यात: प्रागभिधानमस्या इति ॥
देवा ह वै प्रजापतिमब्रुवन्महाचक्रं
नाम चक्रं नो ब्रूहि भगव इति सार्वका
मिकं मोक्षद्वारं यद्योगिन उपदिशन्ति
स होवाच प्रजापतिः षडरं वा एतत्सुद-
र्शनं महाचक्रं तस्मात्षडरं भवति षद्-
पत्रं चक्रं भवति षड्वा ऋतव ऋतुभिः
संमितं भवति मध्ये नाभिर्भवति नाभ्यां
वा एतेऽराः प्रतिष्ठिताः । मायया वा
एतत्सर्व वेष्टितं भवति नात्मानं माया
स्पृशति तस्मान्मायया बहिर्वेष्टितं भव-
ति । अथाष्टारमष्टपत्रं चक्रं भवत्यष्टा-
क्षरा वै गायत्री गायत्र्या संमितं भवति
बहिर्मायया वेष्टितं भवति क्षेत्रं क्षेत्रं
वा मायैषा संपद्यते । अथ द्वादशारं द्वा-
दशपत्रं चक्रं भवति द्वादशाक्षरा वै ज-