Proofing

This page has not been fully proofread.

पञ्चमोपनिषत् ॥
 
वं तावच्चतुर्थोपनिषदि अन्ते स्तुत्युप-
निषदा महाचक्रस्थद्वात्रिंशत्पत्रेषु य-
थासंख्यं द्वात्रिशन्नृसिहम्तुत्योपास्यान-
भिधाय, अथेदानों महाचक्रविद्याम-
भिधातुं महाचक्रस्वरूप निरूपयितुं
प्रश्नोत्तररूपाख्यायिकया पञ्चमोपनि-
दारभ्यते - देवा ह वै प्रजापति ब्रुवन्निति । नन्वेवं तर्हि
स्तुत्युपनिषद्विद्यातो महाचक्रविद्यया प्रारंभवितव्यम् । अत्रो-
च्यते । सत्यम । यदीयं प्राक्स्यात् पुरश्चरणार्थ पञ्चमाङ्गन्या-
साथै च कृत्स्नैव प्रतीयेत ; न तु द्वात्रिंशद्वयूहोपासनामात्रं
पुरश्चरणार्थम् इतरत् सुदर्शनादिमहाचक्रं सद्वात्रिंशद्वयूहकं
पञ्चमाङ्गम् इत्येवं विभागः प्रतीयेत । अतस्तद्विभागज्ञापनार्थं
न प्रागभिहितेयमिति । नन्वेवमपि तदादिन्यायेन महाचक्र-
विद्या पुरश्चरणार्थं कृत्स्नैव कस्मान्न गृह्येत । तन्न, तत्र तदा-
दिन्यायवैषम्यात् । न हि महाचक्रस्यायमादिर्द्वात्रिंशद्वयूहो
 
S.U. VII. 9