2026-05-06 06:50:39 by ambuda-bot
This page has not been fully proofread.
चतुर्थोपनिषत् ।
१२५
मन्तर्भूता: उपास्याः इति दश व्यूहाः विश्वरूपाः उपास्याः ।
कालमनुमृत्युयमान्तकप्राणसूर्य सोमविराट् पुरुषजीवरूपचेत-
नाचेतनसर्वात्मका इत्येते व्यूहाः अविश्वरूपाः तत्तदसाधारण-
रूपगम्याः एवमेकैकव्यूहः उपास्य: तेन तेन मन्त्रेण स्तुत्य:
ततो देवः स्वात्मानं स्वकीयं रूपं विश्वरूपम् अविश्वरूपं
च यथायोग्यं दर्शयति । यस्मादेवं तस्मात् य उपासकः
एतैर्मन्त्रैः नित्यं नियमेन स्तौति, स देवं विश्वरूपमविश्व-
रूपं च पश्यति साक्षात्करोति । सोऽमृतत्वमित्यादि महोप-
निषदित्यन्तं स्पष्टार्थम् । तत्र अमृतत्वं च गच्छतीति फल-
स्य द्विरभ्यासः स्तुतिमात्रादेव परमफलावाप्तिं मन्त्राणां
च सामर्थ्यं दर्शयति । महोपनिषच्छब्दः प्रणवबाहुल्यमिति
सर्वे निर्मलम् ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
नृसिंहपूर्वतापनीयोपनिषद्भाष्ये
चतुर्थोपनिषद्भाष्यं संपूर्णम् ॥