Proofing

This page has not been fully proofread.

चतुर्थोपनिषत् ।
 
११९
 
यति । इति-शब्दो मन्त्रसमाप्तिं द्योतयति । एषा वै नृसिं-
हगायत्री नृसिंहार्थकवचप्रतिपादकत्वाद्गायत्री प्रणवान्तर्भावं
दर्शयति । कवचाश्रिततदावृतहृद्यान्तर्गतानां वेदानां देवानां
यथायोग्यतया निदानं मूलकारणं भवति । उपासकस्य
फलं निर्दिशति । य एवं वेद स निदानवान्भवतीति । तत-
चायमर्थः । पारमेश्वरं कवचाख्यमनं हृत्संबन्धि सर्ववेद-
निदानत्वेनोपास्यं तत्प्रतिपादकत्वात् ऋक्संबन्धि सर्ववेददे -
वनिदानं गायत्री उच्यते इति तस्वार्थः ॥
 
एवं तावन्नृसिंहब्रह्मविद्योपकारिण्यङ्गचतुष्टयव्यापिनी म -
हाचक्राख्याम् अभिधातुं तस्मिंश्चक्रे द्वात्रिंशत्पत्रे यथासंख्यं
कृतप्रणव संपुटे न्यस्तमूलमन्त्राक्षरे एकैकस्मिन् तत्तद्देवता
नृसिंहव्यूहं स्तुतिमन्त्रवर्णसामर्थ्यलभ्यं च प्रदर्शयितुं तान्म-
न्त्रान्प्रश्नोत्तररूपाख्यायिका आरभते ।
 
देवा ह वै प्रजपातिमब्रुवन्नथ कैर्म-
त्रैर्देवः स्तुतः प्रीतो भवति स्वात्मानं द-
र्शयति तन्न ब्रूहि भगव इति स होवाच
प्रजापतिः । ॐ ॐ ॐ यो वै नृसिं-
हो देवो भगवान्यश्च ब्रह्मा तस्मै वै