Proofing

This page has not been fully proofread.

११८
 
--
 
नृसिंहपूर्वतापनीयोपनिषद्भाष्ये
 
कुर्यादिति । एष वै महालक्ष्मी: यजुर्गायत्री महतीनां
महालक्ष्म्यादीनां प्रतिपादकत्वात् महालक्ष्मीः सावित्रमत्रे
अत्र च यजुरिति वदन् सामाङ्गत्वेऽपि गीतिरहितम-
ङ्गद्वयमिति दर्शयति । प्रणवान्तर्भावाय अक्षराणि गणयति
चतुर्विंशदक्षरा भवतीति । चतुर्विंशदिति च्छान्दसम् ।
गायत्री वा इदं तृतीयमङ्गं सर्वं कृत्स्नं यदिदं किंच । य-
स्मादेवं तस्मात् य एतां शिखां पारमेश्वरीं महालक्ष्मीं याजु-
षीं प्रागुक्तविग्रहशक्त्युपास्यां वेद उपास्ते, तस्य फलं निर्दि-
शति — महतीं श्रियमश्नुत इति महतीं श्रियं प्राप्नोती-
त्यर्थः । एतद्गायत्र्युक्ताः शक्तय: विग्रहवत्य: अभिषेचनश-
क्तीनामुपकाराय अमृतमयीं शिखाम् अमृतस्रवणाय तद्व-
न्धनाय वा उपास्ते इति तत्त्वार्थः । एवं तावन्नृसिहब्रह्म-
विद्योपकारिणीं सामाङ्गतृतीयाङ्गविद्यामभिधाय अथेदानीं
सामाङ्गचतुर्थाङ्गविद्यां नृसिंहगायत्रीमाह ।
व्याख्यातः तदङ्कं कवचाख्यं पारमेश्वरम् । धीम-
हीति ध्यायेमहि । किमर्थं वज्रनखाय नृसिंहाय । ता-
दर्थे चतुर्थी । तदर्थं विद्महे जानीमः यतः तदेवाङ्गं नः
अस्मान् सिंहः प्रचोदयात् इत्युक्तार्थम् । नरशब्दं विहाय
सिंह इति वदन् अस्यां विद्यायां सिंहाकारस्य प्राधान्यं दर्श-
 
مد
 
प्रणव: