Proofing

This page has not been fully proofread.

चतुर्थोपनिषत् ।
 
११७
 
हृतीर्व्याचक्षाणैः प्रपञ्चसारे - 'भूः पदात्तु व्याहृतयो भूः शब्दः
सति वर्तते । तत्पदं सदिति प्रोक्तं सन्मात्रत्वाच्च भूरतः ॥
 
भूतत्वात्कारणत्वाच्च भुवः शब्दस्य संगतिः । सर्वस्य स्वीक-
रणात्स्वात्मतया स्वरितीरितम् । महत्त्वाच्च महत्वाच्च मह-
च्छब्द: समीरितः' ततश्च यथासंख्यं भूर्लक्ष्मीरिति ।
सन्मात्रब्रह्मणो व्यापिका शक्तिर्भूर्लक्ष्मीरित्युच्यते । का-
रणमात्ररूपस्य ब्रह्मणः शक्तिर्भुवर्लक्ष्मीरिति । सर्वत्र स्वात्म-
तया अवस्थितस्य ब्रह्मणः शक्तिः सुवःकालकर्णीत्युच्यते ।
महाभूतप्रकाशकात्मकस्य भुवर्ब्रह्मण: शक्तिर्महालक्ष्मीरिति ।
सैकैका शक्तिः तदङ्कं शिखाख्यं तेजोमयं सुषुम्नामृतमयं
सोमरूपेणोपास्यत्वात्तस्य पादस्य, य ओषधीनां प्रभ-
वति तारापतिः सोमस्तत्साम्नस्तृतीयं पादं जानीयात्' इति
श्रुतेः । सोमः चन्द्रः सुषुम्न्नः सूर्यरश्मिश्चन्द्रमा' इति
श्रुते: । नः अस्मान् प्रचोदयादिति चुद प्रेरणे प्रेरयतु । तद-
ङ्गमेकैका विग्रहवती शक्ति: अमृतस्रवणाय प्रेरयतु । अभि-
षेक्त्रीणां शक्तीनां शिखाधिष्ठात्री : शक्ती: प्रति अनया ऋचा
गायत्र्या यजुर्महालक्ष्म्याः प्रार्थनारूपं वचनम् । ततश्च तद्-
ङ्गममृतस्रावि अमृतरूपमुपास्यमिति । अथवा सैकैका शक्तिः
तदङ्गं नः प्रचोदयादिति नः प्रेरयतु । असंविवादमेवाङ्ग
 
'